User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive

संस्कृतम्

 

संस्कृतम्

विस्तारः

भारतम्

भाषाकुटुम्बः

ऐन्द्ययौरोपी (Indo-European)

लिपिः

देवनागिरी[१]

ब्रह्मी तमिऴ्

आधिकारिकस्थितिः

व्यावहारिकभाषा

भारतम्उत्तराखण्डम्

भारतस्य २२ भाषाणाम्एकम्

नियन्त्रणम्

राजकीयनियन्त्रणं नास्ति।

भाषा कोड्

ISO 639-1

sa

ISO 639-2

san

ISO 639-3

san

संस्कृतम् (IAST: saṃskṛtam) जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी।

इतिहास:

 
संस्कृतस्य तालपत्रम् (नेपाललिपिः प्रयुक्तम्)

इयं भाषा न केवलं भारतस्‍य अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥

विश्‍वस्‍य आदिम: ग्रन्‍थ: ऋग्‍वेद: संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा यजुर्वेद:सामवेद:अथर्ववेदश्‍च संस्‍कृतभाषायामेव सन्‍ति। आयुर्वेद-धनुर्वेद-गन्‍धर्ववेदार्थवेदाख्‍या: चत्‍वार: उपवेदा: अपि संस्‍कृतेन एव विरचिता:॥

सर्वा: उपनिषद: संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: - शिक्षाकल्‍प:निरुक्तम्ज्‍यौतिषम्छन्‍द:व्‍याकरणम्दर्शनम्इतिहास:,पुराणंकाव्‍यंशास्‍त्रं चेत्यादयः ॥

महर्षि-पाणिनिना विरचित: अष्‍टाध्‍यायी इति संस्‍कृतव्‍याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |

पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥

सुकुमार:

लिपि:

 
अनेकेषु लिपिषु संस्कृतम्

संस्‍कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत्‌| कालान्‍तरे एतस्‍य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्या आरब्धम् ।

अन्‍यरूपान्‍तराणि अधोनिर्दिष्टनि सन्‍ति -- बाङ्गलालिपिःशारदालिपिःतेलुगुलिपिःतमिळलिपिःयव-द्वीपलिपि:कम्‍बोजलिपिःकन्नडलिपिःनेपाललिपिः,मलयाळमलिपिःगुजरातीलिपिः, इत्यादय: ॥

मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते।

अक्षरमाला[सम्पादयतु]

संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः स्वरः; तदनर्हं व्यञ्जनम्। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।

संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते -

प्रणवः
स्वराः
ह्रस्वस्वराःदीर्घस्वराः
 
 
 
 
 
अयोगवाहौ
अनुस्वारःविसर्गः
अं अः
व्यञ्जनानि
  खराःअतिखराःमृदवःघोषाःअनुनासिकाः
कवर्गः
चवर्गः
टवर्गः
तवर्गः
पवर्गः
मध्यमाः
(अन्तस्थाः)
ऊष्माणः

यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्यकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।

अविभाज्य एको नादो वर्णः; केवलो व्यञ्जनसंसृष्टो वा स्वर एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्ण इत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्ण एव। केवला एव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।

यथा -

क् + अ = क

क् + आ = का

क् + इ = कि

क् + ई = की

क् + उ = कु

क् + ऊ = कू

क् + ऋ = कृ

क् + ॠ = कॄ

क् + ऌ = कॢ

क् + ए = के

क् + ऐ = कै

क् + ओ = को

क् + औ = कौ

इत्यादि।

'क्’ इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणा वर्णैर्व्यवहरन्ति। अतश्च 'क', 'कि’, 'कु’ इत्याद्या लिपय एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता।

अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव।

स्वराः

‘अच्’ इति स्वरस्य पाणिनिकृता संज्ञा। येषां वर्णानाम् उच्चारणं स्वतन्त्रतया भवति ते स्वराः कथ्यन्ते।

उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः -

  1. एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो ह्रस्वः।

  2. आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो दीर्घः।

  3. अ...३, इ...३, उ...३ इत्यादिवत् तिसृभिरुच्चार्यमाणः प्लुतः (प्ळुतः‌)।

ह्रस्वस्वराः

येषां स्वराणाम् उच्चारणम् एकमात्राकलेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।

अ इ उ ऋ लृ

दीर्घस्वराः

येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।

आ ई ऊ ॠ ए ऐ ओ औ

प्लुतस्वराः

येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।

अ...३ आ...३ इ...३ ई...३ उ...३ ऊ...३ ऋ...३ ऋृ...३

लृ...३ ए...३ ऐ...३ ओ...३ औ...३

  • एषु ह्रस्वदीर्धाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।

  • स्वरेषु 'ऌ'कारोऽतीव विरलः - 'कॢप्तम्’, 'कॢप्तिः’ इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।

  • ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपः आधुनिककाले उपयुज्यते। 'ए'कारस्य ह्रस्वरूपं देवनागर्यां 'ए' इति लिखति। 'ओ'कारस्य ह्रस्वरूपं देवनागर्यां 'ओ'इति लिखति।

  • ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते - ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)

सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविधमस्ति।

 
ऋग्वेदस्य प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्

अयमपि भेदः सूत्रकारवचनैरेवोच्यते -

उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।

उच्चः स्वर उदात्तः; नीचोऽनुदात्तः; उच्चनीचमिश्रितः स्वरितः।

लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। - अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनक्ङितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।

अयोगवाहौ

मुख्यलेखाः : अनुस्वारःविसर्गः

अनुस्वारः

अर्ध-‘म’कारसदृशाध्वनिरनुस्वारः।

विसर्गः

विसर्गापरपर्यायो विसर्जनीयः। अर्ध-‘ह’कारसदृशाध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।

विसर्गादयो न स्वतन्त्रा वर्णाः; नैभि किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।

व्यञ्जनानि

क् ख् ग् घ् ङ्

च् छ् ज् झ् ञ्

ट् ठ् ड् ढ् ण्

त् थ् द् ध् न्

प् फ् ब् भ् म्

य् र् ल् व् श्

ष् स् ह् ळ्

उच्चारणशास्त्रम्

वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।

यथोक्तं पाणिनीयशिक्ष्यायाम् -

आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
मारुतस्तूरसि चरन् मन्द्र्ं जनयति स्वरम् ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥

एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. उरः, २. कण्ठः, ३. शिरः (मूर्धा), ४. जिह्वामूलम्, ५. दन्ता, ६. नासिका, ७. ओष्ठौ, ५. तालुः।

तद्यथा -

वर्णस्य उत्पत्तिस्थानम्वर्णानां संज्ञास्वराःव्यञ्जनानिअयोगवाहौ
कण्ठकण्ठ्यः अ आ क् ख् ग् घ् ङ् ह् अः
(विसर्गः)
तालुःतालव्यः इ ई च् छ् ज् झ् ञ् य् श्  
मूर्धामूर्धन्यः ऋ ॠ ट् ठ् ड् ढ् ण् र् ष् ळ्  
दन्ताःदन्त्यः ऌ ॡ त् थ् द् ध् न् ल् स्  
ओष्ठौओष्ठ्यः उ ऊ प् फ् ब् भ् म्  
कण्ठतालुकण्ठतालव्यः ऐ ए ऐ    
कण्ठोष्ठम्कण्ठोष्ठ्यः ओ ओ औ    
दन्तोष्ठम्दन्तोष्ठ्यः    
नासिकानासिक्यः     अं
(अनुस्वारः)

उच्चारणभेदाः

देशभेदादुच्चारणभेदाः। यथा - यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र वङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive

कृष्णः भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। कर्षति आकर्षति इति कृष्णः, मेघश्यामवर्णीयः इति तस्य नामस्य अर्थः। मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।।

तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।अष्टमपुत्रः कृष्णः जनितः इति विदित्वा आगच्छति |किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। एतद्विषयं तत्स्त्रीकन्यया विदितः कंसः श्रीकृष्णस्य अन्वेषणे सर्वत्र स्वसैन्यं प्रेषितवान्। तद्व्याजया आगतान् शकटासुर तृणावर्तादीन् संहरति। अर्जुनवृक्षछेदव्याजया धुनि,चमु इति असुरौ संहरति। एवं लोकपालः कृष्णः गोकुलं त्यक्त्वा वृंदावनं प्रति आगत्य तत्र बक-उग्र-वत्सासुरादीन् संहरति। तत्रैव कालीयमर्धनं कृत्वा लोकरक्षणार्थं कालीयं मारयति। तत्सप्तवयसि एव कालनेमिपुत्रान् वेषभस्वरूपान् सप्तदैत्यान् मारितस्य कृष्णस्य नीला इति कन्यया साकं विवाहं भवति। एकदा एषः वृन्दावने इन्द्रयज्ञं न्यवारयति। तदा कृद्धः इन्द्रः बृहद्वर्षधारां निरंतरं वर्षति। तदा कृष्णः गोवर्धनगिरिं धृत्वा वृन्दावनजनान् रक्षति।तद्दृष्ट्वा इन्द्रोपि कृष्णस्य समीपे शरणागतिं प्राप्नोति। एतद्गोवर्धनगिरिप्रसंगेन सर्वे जनाः श्रीकृष्णं स्वयं भगवान् इति जानन्ति। एवं शंखचूड-अरिष्टासुर-रजक- पूतनी-कुवलयापीड-चाणूर-मुष्टिकासीन् हत्वा स्वमातुलं कंसं च मारितः श्रीकृष्णः देवकी वसुदेवयोः बन्धनं निस्सारितवान्। १६१०८ पत्नीन् प्राप्तः कृष्णः नरकासुरसंहारानंतरं स्त्रीसंरक्षणार्थं १६००० कन्यान् उद्वहति। यतः नरकासुरः तान् कन्यान् स्वबंधने वनिहितव्वन्। यदा कृष्णः नरकासुरं हत्वा तान् कन्यान् विमोचति। तदा ते प्रार्थयंति। नरकासुरात् बन्धितान् अस्मान् कोपि नेछति। अतः अस्माकं तावत् त्वमेव गतिः पतिः इति। तेषां प्रार्थनानुसारेण कृष्णः तान् उद्वहति।अन्ये लक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् सन्दर्भानुसारेण कृष्णं प्राप्नुवन्ति। कृष्ण: यादवकुलस्य राजा आसीत्। तेनभगवद्गीता संवाद: प्रदत्तः।

 
कृष्णवेशः

गीतायाम् अष्टादश अध्यायाः सन्ति। दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनाय स्वस्य विश्वरूपं दर्शयति। द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः। कृष्णः इति नामं तावत् भगवद्मूलरूपेषु चतुर्विंशतिरूपेषु अंतिमः। महाभारतस्य विष्णुसहस्रनामे ५७ & ५५० तमे नामे प्रसिद्धः। कृष्णस्य इतिहासस्तु महाभारतॆ,भागवतमहापुराणे, विष्णुपुराणे, हरिवंशे गीयते। एषः कृष्णः एव ओडिशा मध्ये जगन्नाथ, महाराष्ट्रे विठोभ, राजस्थानमध्ये श्रीनाथ इति प्रसिद्धः। उत्तरप्रदेश, बिहार्, हरियाण, गुजरात्, डेल्ली मध्येषु कृष्णस्य संचलनमासीत् इति प्रथा।

 
यशोदानन्दनः बालकृष्णः-राजा रविवर्मणः कला
 
यमुनातीरे गोपिकाभिः सह कृष्णः

बाह्यानुबन्धाः

श्री राधाकृष्ण परमात्मने ।

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive

गणतन्त्रदिनम् ( Sanskrit Essay on Republic Day )

भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।

 

 

गणतन्त्रदिनस्य अलङ्कारः

प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति । जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् ।

भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।

 
गणतन्त्रदिनस्य अलङ्कारः

प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति । जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् । देशे तथा विदेशेषु च भारतस्य सामाजिक-आर्थिक-सांस्कृतिक-वैभवस्य प्रदर्शनं तथा शान्ति- सुव्यवस्थास्थापनं विदेशैः सह उत्तमसम्बन्धस्थापनम् इत्यादीनि संविधानस्य उद्देश्यानि । भारतीय संविधानम् लिखितं संविधानम् अस्ति । अत्र ३९५ विधयः, अष्ट-अनुसूच्यः सन्ति । संविधान- रचनासमितेः अध्यक्षः भारतदेशस्य राष्ट्रपतिः श्री बाबूराजेन्द्रप्रसादः आसीत् । संविधानसङ्ककलनसमितेः अध्यक्षः डा बी आर् अम्बेड्करःआसीत् । अतः अम्बेडकरमहोदयं भारतीयसंविधानशिल्पी इति कथयन्ति । संविधाने मुख्यतः राष्ट्रपतिः उपराष्ट्रपतिः लोकसभा राज्यसभा इत्यादीनां व्याख्या, चयनं, चालनं इत्यादि नियमाः निरुपिताः सन्ति । भारतदेशः अनेकराज्यानां गणानां समूहात्मकः अस्ति । राष्ट्रे लोकसभा राज्यसभा च इति उभयसदने स्तः । राज्येषु विधानसभाविधानपरिषद् इति च स्तः । लोकसभायां तथा विधानसभायां जनैः निर्वाचिताः जनप्रतिनिधयः कार्यं चालयन्ति । राज्यसभायां तथा विधानपरिषदि जनप्रतिनिधिभिः निर्वाचिताः सदस्याः कार्यं सञ्चालयन्ति । लोकसभायाम् ५४४ प्रतिनिधयः जन संख्याधारेण निर्वाचिताः भवन्ति । राष्ट्रियसर्वकारस्य केन्द्रसर्वकारः इति नाम अस्ति । राज्येषु राज्यसर्वकाराः कार्यं कुर्वन्ति । प्रायशः पञ्चवर्षेषु एकवारं निर्वाचनं भविष्यति । १८ वर्षवयस्काः स्वेष्टं प्रतिनिधिं मतदानेन प्रशासकं कर्तुं प्रभवन्ति । एवं भारतीयप्रजा एव राष्ट्रपतिरपि भवति । संविधाने भारतीयप्रजानां विविधकर्तव्यानि तथा अधिकाराः च घोषिताः सन्ति । कर्तव्येषु-

*राष्ट्ररक्षणम्

*शान्तिसुव्यस्थारक्षणम्

*अखण्डतायाः एकतायाः तथा सहोदरतायाश्च रक्षणम्

* उदात्तादर्शपालनं भारतीयसंपदः संरक्षणं संस्कृतिरक्षणम्

इत्यादीनि प्रमुखाणि । सर्वजनानामपि अनेकविधाधिकाराः दत्ताः सन्ति ।

*मतदानाधिकारः

*देशे यत्र कुत्रापि वासाधिकारः

*न्यायस्वीकाराधिकारः

*धार्मिकस्वतन्त्रता

*विद्याध्ययनस्वतन्त्रता

*सास्कृतिकस्वातन्त्र्यम्

*शोषणायाः विरुद्धान्दोलनस्वातन्त्रयम्

*समानताधिकारः

*वाक् स्वातन्त्रयम्

इत्यादि प्रमुखविषयाः सन्ति । भारतदेशे न्यायदानकार्याय अधीनन्यायालयाः राज्ये उच्चन्यायालयाः, राष्टियसर्वोच्चन्यायालयः च सन्ति । भारते २८ राज्यानि सप्तकेन्द्रशासितप्रदेशाः च सन्ति । राज्यराजधानीषु उच्चन्यायालयाः सन्ति । देहलीनगरे राष्टस्य राजधान्यां सर्वोच्चन्यायालयः अस्ति । भारतदेशः जात्यतीतः सर्वधर्मसमभावयुक्तः च अस्ति । हिन्दूधर्मीयाः जैनाः बौध्दाः महम्मदीयाः सिखधर्मीयाः क्रैस्ताः,फारसीकाः जनाः अत्र निवसन्ति । ‘अनेकतायाम् एकता’ एव भारतस्य विशेषः अस्ति । सर्वे जनाः स्वधर्मानुसारं जीवनं कुर्वन्ति पर्वाणि अचरन्ति । पर्वसु परस्परं शुभाशयं यच्छन्ति । शतशः पर्व- विशेषाः भारतदेशे आचर्यन्ते । भारतदेशे सहश्रशः भाषाः सन्ति । जनाः परस्परं वदन्ति । किन्तु संविधानरीत्या अष्टादशभाषाणां राष्ट्रभाषा स्थानं दत्तमास्ति । हिन्दी भाषा अधिकजनानां भाषाऽस्ति । राष्ट्रे राजभाषा इवास्ति । भाषानुसारमेव भारते राज्यानां विभागः कृतः अस्ति । सर्वत्र जनेषु वयं भारतीयाः इति भावना जागरिता अस्ति। भारतदेशे राष्ट्रियकार्यक्रमरुपेण पञ्चवर्षिकयोजनाः निर्धारिताः भवन्ति । कृषि-उद्योग-विद्युत्-वाणिज्य- आरोग्य-साक्षरता इत्यादिविषयेषु सततम् कार्ययोजना रचिता भवति । सर्वजनहिताय नियमाः योजनाः च रुपिताः भवन्ति । भारते समग्रतां भावैक्यतां स्थापयितुं महानप्रयासः कृतः अस्ति । तेषां संरक्षणं सर्वभारतीयानाम् आद्यं कर्तव्यमिति संविधानेऽपि निर्दिष्टम् अस्ति । केन्द्रसर्वकारस्य राष्ट्रपतिः एव प्रमुखः । लोकसभायां बहुमताधारेण पक्षाधारेण च प्रशासनं भवति प्रधानमन्त्री राष्ट्रशासकाङ्गपक्षस्य प्रमुखः भवति । राज्येषु राज्यपालःप्रमुखः। मुख्यमन्त्री बहुमताधारेण पक्षाधारेण च शासकाङ्गस्य नायकः भवति । पञ्चवर्षपर्यन्तं निर्वाचितस्य पक्षस्य अधिकारावधिः अस्ति । प्रजाराज्योत्सवदिने राष्ट्रध्वजारोहणं सर्वत्र भवति । देहलीनगरे ‘परेड’ (पथसञ्चलनकार्यक्रमं) स्वयं राष्टपतिः विदेशीयेन अतिथिना सह पश्यति । अत्र भूदलनौकादलवायुदलानां, सीमासुरक्षादलस्य, एन.सी.सीजनानां, भारतीय-स्कौट- गाइडस्जनानां, गृहरक्षकदलस्य च गौरवप्रदानकार्यं प्रचलति । विविधराज्यैः निर्मितानां कलासंस्कृतिविषयकानां दृश्यरुपकानां प्रदर्शनं सुन्दरम् आकर्षकं च भवति । सर्वैः वन्दनानि स्वीकुर्वन् राष्ट्रपतिः सर्वेभ्यः शुभाशयं वदति । अस्मिन्त समये युद्धविमानानां शस्त्रास्त्राणां क्षिपणीनां प्रदर्शनं बलप्रदर्शनार्थम् आयोजयिष्यते । भारतीय नागरिकेषु प्रतिष्ठितानां पद्मप्रशस्तिः, वीरयोधानां परमवीरचक्रप्रशस्तिः , इत्यादि- प्रशस्तिप्रदानकार्याणि अपि प्रचलन्ति । प्रजाराज्योत्सवदिने मध्याह्ने सांस्कृतिककार्यक्रमाः भवन्ति । तत्र बहुविधनृत्यगीतहास्यनाटकादिषु बालाः सहर्षं भागं स्वीकुर्वन्ति ।

वर्गाः

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive

स्वातन्त्र्यदिनोत्सवः ( Sanskrit Essay on Independence Day )

 

              भारतस्वतन्त्रतादिनम्  'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते ।

             स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते । ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति ।

           स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरंभारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते ।

भारतस्वतन्त्रतादिनम् ( ( शृणु) /ˈsvɑːtəntrjədɪntsəvəh/) (हिन्दीभारतस्वतन्त्रता दिवसआङ्ग्लIndependence Day (India)) 'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्केभारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्यशासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते ।

भारतदेशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरं पुर्तुगाल-देशीयाः, नेदरर्लैण्ड-देशीयाः, फ्रान्स-जनाः, ब्रिटिश-जनाः च आगताः । सर्वे अत्र शासनम् अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्रापन् । ततः स्वतन्त्रतां प्राप्तुंकर्णाटकराज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी कित्तूरु चेन्नम्म आरभत । मङ्गल पाण्डेयराज्ञी लक्ष्मीबाईतात्या टोपे इत्यादयः युद्धं कृत्वा जनानपि प्राचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः विभिन्नैः क्रान्तिमार्गैः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । सरदार वल्लभभाई पटेलभगत सिंह,मदनलाला धिङ्ग्राचन्द्रशेखर आजादमहात्मा गान्धीमैलार महादेवसङ्गोळ्ळि रायण्णनाना साहेब इत्यादयः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । लाला लाजपत रायमातङ्गिनी हाजराभगत सिंहचन्द्रशेखर आजाद सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषाम् अन्तिमसमयेऽपि मनसि वचने च 'भारत माता की जय', ‘वन्दे मातरं’ जयघोषाः भवन्ति स्म । एवं भारतदेशं स्वतन्त्रं कर्तुं बहूनिस्वतन्त्रतान्दोलनानि अभवन् ।

इतिहासः

१८५७ तमे वर्षे भारते प्रप्रथमं स्वतन्त्रतान्दोलनम् अभवत् । १८२० तमस्य वर्षस्य कित्तूरु चेन्नम्मा इत्यस्याः आङ्ग्लविरुद्धं युद्धम् अपि प्रप्रथमम् आङ्ग्लविरुद्धम् आन्दोलनं गण्यते । कित्तूरु चेन्नम्माझांसी लक्ष्मीबाईतात्या तोपे, राजा कुंवर सिंह, नाना साहेबमङ्गल पाण्डेय इत्यादीनाम् आह्वानेन भारतीयाः तयोः आङ्ग्लविरुद्धयोः युद्धयोः भागम् अवहन् । परन्तु आङ्ग्लानां कूटनीतेः कारणेन, भारतीयानां देशद्रोहस्य बाहुल्येन च तयोः युद्धयोः भारतीयानां करुणपराजयः अभवत् । ततः अपि भारतस्वातन्त्रतायाः अग्निः अखण्डः आसीत् ।

कालान्तरे रामप्रसाद बिस्मिलचन्द्रशेखर आजादभगत सिंहसुखदेवराजगुरुबटुकेश्वर दत्तभगवतीचरण वर्मादुर्गा भाभीसुशीला भगिनीमातङ्गिनी हाजरालाला लाजपत रायसुभाष चन्द्र बसुजयप्रकाश नारायणसरदार वल्लभभाई पटेलमहात्मा गान्धी इत्यादयः स्वतन्त्रतासङ्ग्रामे स्वयोगदानम् अयच्छन् । १८२० तः १९४७ पर्यन्तं भारतीयानाम् अविरतप्रयासेन १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतीयाः स्वतन्त्रतां प्रापन् ।

भारतात् पलायनस्य पृष्ठे अपि आङ्ग्लानां कूटनीतिः आसीत् । गमनकाले ते भारतस्य विभाजनं कृत्वा अगच्छन् । भारतस्य सीमावर्तिप्रदेशान् पाकिस्थानाय दत्त्वा भारतं विकटस्थित्याम् उपास्थापयन् । भारतस्यपाकिस्थानेन सह पौनःपुन्येन युद्धे सति भारतं स्वतन्त्रतायै योग्यं नास्ति इति सिद्धयितुं तेषां प्रयासः आसीत् । परन्तु सरदार वल्लभभाई पटेलवी पी मेननबी आर् आम्बेडकर इत्यादीनाम् अविरतप्रयासेन तेषां पुनरागमनस्य स्थितिः अपाभवत् ।

स्वतन्त्रतानन्तरं भारतम्

१९४७ तमे वर्षे आङ्गलाः भारतं त्यक्त्वा अगच्छन् । स्वतन्त्र्याप्राप्तेः अनन्तरम् आङ्ग्लैः जनिताः अनेकाः कष्टदायिकाः समस्याः भारतदेशे समुद्भूताः । पाकिस्थान-भारतयोः असङ्ख्याकाः जनाः देशविभाजनप्रक्रियायां मृताः । भारते प्रधानमन्त्री जवाहरलाल नेहरू इत्यस्य काले कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागारादिषु क्षेत्रेषु कार्यम् आरभत । ततः ग्रामोद्धारः, महिलाशिक्षा, निरुद्योगपरिहारः, आहारोत्पादनं, विद्युदुत्पादनं, जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि स्वतन्त्रे भारते आरब्धानि । भारतदेशे जनसङ्ख्यायाः आधिक्यात् समस्याः अधिकाः आसन् । भारतीयसर्वकारः भारतीयसंविधानस्य माध्येन भारतस्यसुचारुशासनद्वारा शनैः शनैः देशजनानां दुःखनिवारणस्य कार्यं करोति स्म ।

 
भारतस्य भविष्यम्

यद्यपि भारतीयसंविधाने "सर्वेषां समानाधिकारः" इति नियमेन भारतीयानां विकासे वेगः अवर्धत, तथापि "देशस्य केचन वर्गाः दुःखिताः सन्ति" इति सर्वकारेणानुभूतम् । अतः संविधाने दलित-वर्गस्य दुःखं परिहर्तुं प्रयासाः अभवन् । सर्वेषां कृते उत्तमा योजना अभवत् । भारतस्वतन्त्रतानन्तरं संविधानस्यनिर्माणं भारतीयशासनस्य स्थायित्वस्य शिलान्यासः आसीत् । अतः २६/१ तमे दिनाङ्के वयं प्रजासत्ताकदिनस्य उत्सवम् आचरामः ।

स्वतन्त्रतादिने उत्सवः

स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभ्यते । ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । आभारते शैक्षणिकसंस्थासु, सर्वकारसंस्थासु, स्वयंसेविसंस्थासु सर्वत्र ध्वजारोहणेन सह राष्ट्रगानं भवति । विभिन्नाः शैक्षणिकसंस्थाः बालकेषु देशभक्त्याः भावम् उत्पादयितुं विभिन्नानां स्पर्धानाम् आयोजनं कुर्वन्ति । भाषणस्पर्धा, देशभक्तिगीतानां गायनं, समूहनृत्यं, नाटकानि, पदयात्राः, प्रदर्शिन्यः इत्यादीनाम् आयोजनं भवति । दिनेऽस्मिन् सर्वत्र स्वातन्त्र्यवीराणां स्मरणम्, आत्मार्पणं कृतवतां संस्मरणं, वीरगाथाश्रावणं च प्रतिध्वनति ।

ध्वजारोहणस्य समारोहः

स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरंभारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः आयोज्यन्ते । स्वातन्त्र्योत्सवः भारतस्य राष्ट्रियपर्व अस्ति । अस्मिन् पर्वणि सर्वे भारतीयाः एकीभूय भागं गृह्णन्ति । स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । तस्मिन् दिने आभारते अवकाशः भवति । यतो हि भारतीयाः स्वतन्त्रतायोद्धॄणां सम्मानाय, भारतस्य स्वतन्त्रतायाः उत्सवाय, देशस्य वर्तमानस्थित्याः मूल्याङ्कनाय च स्वसमयं दातुं प्रभवन्ति ।

स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । देशविकासकार्येण तस्याः स्वतन्त्रतायाः संरक्षणं भारतीयैः कर्तव्यम् अस्ति । राष्ट्रं वैदेशिकेभ्यः, भ्रष्टचारिभ्यः, भयोत्पादकेभ्यः च रक्षितुं सर्वैः सन्नद्धाः भवितव्यम् । स्वस्य दायित्वस्य सम्यक्तया पालनं, देशभक्त्याः विचारान् धृत्वा च कार्यं कर्तव्यम् । देशरक्षणं न केवलं सैनिकानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् इति अस्माभिः स्मर्तव्यम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारान् दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।

बाह्यानुबन्धः

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive

रक्षाबन्धनम् ( Sanskrit essay on Rakshabandhan )

रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

रक्षाबन्धनं ( ( शृणु) /ˈrkʃhɑːbənðənəm/) (हिन्दीरक्षाबन्धनआङ्ग्लRaksha Bandhanश्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।

रक्षाबन्धस्य भावः

 
आपणे रक्षासूत्राणां प्रदर्शनी

भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७।। श्रीमद्भगवद्गीतायाः सप्तमोऽध्याय: ज्ञानविज्ञानयोगः

हे धनञ्जय ! किमपि अन्यत् वस्तु मदपेक्षया उत्कृष्टतरं नास्ति । एतत् सर्वं तन्तौ मणिसमूहाः इव मयि युक्तम् अस्ति ।

उक्तश्लोकानुगुणं भगवतः श्रीकृष्णस्य स्वरूपत्वेन सूत्रं मन्यते । अतः रक्षाबन्धनकाले भगिनी श्री[[कृष्ण]स्य स्मारकं सूत्रं भ्रातुः हस्ते बध्नाति । “द्रौपद्याः प्रत्येकसमस्याकाले यथा श्रीकृष्णः तस्याः रक्षणम् अकरोत्, तथैव मम भ्राता मम रक्षां कुर्यात्” इत्यपि भावः ।

रक्षासूत्रम्

 
स्वभ्रातुः कृते रक्षासूत्रं क्रीयन्त्यः भगिन्यः

सूत्रबन्धनस्य पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति उच्यते । "आपत्तिभ्यः, रोगेभ्यः, दूषणेभ्यः च भ्रातुः रक्षणं भवतु" इति भगिनी प्रार्थनां करोति । ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति । अतः रक्षाबन्धनम् इति । आदिभारतीयसंस्कृतौ रक्षाबन्धनं न केवलं भ्रातृभगिन्योः सम्बन्धे सीमितम् आसीत्, अपि तु अन्यसम्बन्धेषु अपि रक्षाबन्धनस्य व्यवहारः आसीत् । यतो हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते । मौक्तिकमालायाः, पुष्पमालायाः च आधारः यथा सूत्रं भवति, तथैव रक्षासूत्रं प्रेमप्रतीकत्वेन जनानां सम्बन्धस्य आधाररूपं मन्यते ।

प्राचीनकिंवदन्त्यानुसारं संसारे यदा यदा नैतिकतायाः न्यूनता भवति, तदा तदा सदाशिवः ब्रह्मद्वारा पवित्रसूत्राणि पृथ्वीलोकं प्रेषयति । तानि सूत्राणि एव रक्षासूत्रत्वेन भगिनी स्वभ्रातुः हस्ते बध्नाति । "शिवेन प्रेषितानि तानि सूत्राणि भ्रातुः मनसः नकारात्मकविचारान् दूरीकुर्वन्ति, अभद्राचरणात् स्वभ्रातरं रक्षन्ति च" इत्यपि मन्यते । अतः भगिनी स्वया क्रीतानि स्वनिर्मितानि वा रक्षासूत्राणि शिवलिङ्गस्य समीपं स्थापनानन्तरम् एव भ्रातुः हस्ते बध्नाति ।

पौराणिक्यः कथाः

 
भ्रातुः हस्ते सुशोभितं रक्षासूत्रम्

पुराणानुसारं श्रावणमासस्य पूर्णिमायां ब्राह्ममुहूर्ते देव-मनुष्य-पितृतर्पणानि दत्त्वा ब्राह्मणैः निर्मितं, मन्त्रितं च रक्षासूत्रं स्वहस्ते धर्तव्यम् । शिवस्य समीपं रक्षासूत्रं स्थापयित्वा स्वहस्ते रक्षासूत्रबन्धनं वरम् इत्यपि कथ्यते । पौराणिके काले रक्षाबन्धनं भ्रातृभगिन्योः सम्बन्धे सीमितं नासीत् । पत्नी पतिं, गुरुः शिष्यं, ब्राह्मणः राजानं,व्यापारी स्वसाधनं, क्षत्रियः स्वशस्त्रं, कृषकः स्वकृषिसाधनं च रक्षासूत्रं बध्नाति स्म । अधुना पतिपत्न्योः मध्ये रक्षाबन्धनस्य प्रथा न दृश्यते । परन्तु अन्येषु सम्बन्धेषु रक्षाबन्धनस्य प्रथा अधुनापि दृश्यते ।

इन्द्रस्य कथा

भविष्यपुराणे देवदानवयोः एका घटना उल्लिखिता वर्तते । तत्र उल्लिखतं यत्, प्राचीनकाले देवदानवयोः भीषणं युद्धं द्वादशवर्षेभ्यः चलत् आसीत् । तस्मिन् युद्धे देवानां पराजयः भविष्यति इति देवगणेषु चर्चा आसीत् । देवराजः इन्द्रः देवानां पराजयस्थितिं दृष्ट्वा दुःखितः, मनसा दुर्बलः अभवत् । तस्य सम्मुखं न कोऽपि मार्गः आसीत् । तस्य चिन्तनशक्तिः अपि शिथिला अभवत् । अतः सः देवगुरोः बृहस्पतेः शरणम् अगच्छत् । शक्रः यदा देवानां पराजयस्थितिविषये देवगुरुम् अकथयत्, तदा तत्र इन्द्राणी अपि उपस्थिता आसीत् । इन्द्रस्य कथनं श्रुत्वा इन्द्राणी अवदत्, “श्वः श्रावणपूर्णिमा अस्ति । अहं शास्त्रियविधानानुसारं रक्षासूत्रं सज्जं करिष्ये । तत् रक्षासूत्रं त्वं ब्राह्मणेभ्यः स्वस्तिवाचनं कारयित्वा स्वहस्ते बन्धय” इति । द्वितीये दिने इन्द्राणी यत् रक्षासूत्रं न्यर्मात्, तत् सूत्रं बृहस्पतेः स्वस्तिवाचनेन सह इन्द्रः स्वहस्ते अधरत ।

बृहस्पतिना निम्नश्लोकेन स्वस्तिवाचनं कृतम् –


येन बद्धो बलिराजा, दानवेन्द्रो महाबल: ।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल ।।

ततः रणाङ्गणे दानवानां नाशं कृत्वा देवताः अजयन्त । ततः रक्षाबन्धनविधिः ब्राह्मणानां स्वस्तिवाचनेन कर्तव्या इति परिपाटिः आरब्धा ।

दानवेन्द्रस्य बलेः कथा

दानवेन्द्रः बलिः यदा अश्वमेधयज्ञं/विश्वविजययज्ञं कुर्वन् आसीत्, तदा बलेः सर्वस्वं स्वाधीनं कृत्वा वामनावतारी भगवान् विष्णुः तं पाताललोकं प्रैषयत् । पाताललोकस्य शासनं सहर्षम् अङ्गीकृत्य बलिः भगवतःविष्णोः एकं वचनम् अयाचत । बलिः अयाचत, “हे त्रिलोकस्वामिन् ! त्वं पाताललोके निवसन् मम राज्यस्य रक्षणं कुरु” इति । बलेः वचनेन बद्धः भगवान् विष्णुः पाताललोके एव निवसनं प्रारभत । वैकुण्ठलोके लक्ष्मीःस्वपत्युः विरहेण दुःखिता आसीत् । श्रावणमासस्य पूर्णिमायां ब्राह्मण्याः रूपं धृत्वा देवी लक्ष्मीः बलेः हस्ते रक्षासूत्रं बन्धयितुं (to tie, बान्धने के लिए) पाताललोकम् अगच्छत् । रक्षायाः पवित्रं सूत्रं बलेः हस्ते बद्ध्वा तस्य रक्षणस्य प्रार्थनाम् अकरोत् । ब्राह्मणीं प्रति स्वकृतज्ञतां प्रकटयितुं बलिः वचनं दातुं प्रस्तुतः अभवत् । बलिः यदा वरं याचितुं ब्राह्मणीम् अवदत्, तदा लक्ष्मीः बलिं स्वस्याः वास्तविकरूपस्य दर्शनम् अकारयत् ।लक्ष्मीः स्वपतिं वचनमुक्तं कर्तुं बलिम् अवदत् । भगिन्याः वचनेन बद्धः बलिः विष्णुं वचनमुक्तम् अकरोत् । ततः बलिः लक्ष्मीभ्रातृत्वेन प्रसिद्धः अभवत् । तत एव भगिन्यः स्वभ्रातॄणां दीर्घायोः कामनया स्वभ्रातुः हस्ते रक्षाबन्धनम् आरभन्त ।

श्रीकृष्णद्रौपद्यौ

महाभारते बहुत्र उल्लेखः प्राप्यते यत्, “श्रीकृष्णस्य हस्ते द्रौपदी रक्षाबन्धनम् अकरोत्” इति । रक्षाबन्धनसम्बद्धा कथा अपि महाभारते प्राप्यते । श्रीकृष्णः सुदर्शनचक्रेण यदा शिशुपालस्य वधम् अकरोत्, तदाश्रीकृष्णस्य दक्षिणहस्तस्य तर्जन्याः रक्तम् अवहत् । द्रौपदी स्वशाटिकायाः एकं भागं विच्छिद्य श्रीकृष्णस्य आहततर्जन्याः उपरि अबध्नात् । तस्मिन् दिने श्रावणमासस्य पूर्णिमा आसीत् । अतः श्रीकृष्णः तत् सूत्रं रक्षासूत्रत्वेन अङ्ग्यकरोत् । ततः द्रौपदीवस्त्रहरणकाले श्रीकृष्णः द्रौपद्याः रक्षणम् अकरोत् ।

ऐतिहासिक्यः कथाः

भारतस्य इतिहासः अतिप्राचीनः वर्तते । अतः रक्षाबन्धनेन सह सम्बद्धाः अनेकाः घटनाः घटिताः स्युः । परन्तु याः घटनाः अधुना अपि प्रचलिताः सन्ति, तासाम् अत्रोल्लखः कृतः ।

भारतस्वतन्त्रतायां रक्षाबन्धनम्

भारतस्वतन्त्रतान्दोलने जनसामान्यानां मनसि देशभक्तिभावम् उत्पादयितुं क्रान्तिकारिणः रक्षाबन्धनपर्व आचरन्ति स्म । १९०५ तमे वर्षे क्रूराः आङ्ग्लाः वङ्गभङ्गस्य माध्यमेन अखण्डभारतं भङ्गयितुं प्रयासम् अकुर्वन् । तेषां भारतविरोधिनीतीनां विरोधं कर्तुं भारतीयक्रान्तिकारिणः आन्दोलनानि अकुर्वन् । “वन्दे मातरं” जयघोषेण आभारतं, वङ्गप्रदेशश्च ध्वणति स्म (गुंज रहा था) । लॉर्ड् कर्ज़न् इत्यस्यभारतविरोधिनिर्णयस्य विरोधार्थं १९०५ तमे वर्षे क्रान्तिकारिभिः रक्षाबन्धनस्य सामूहिकोत्सवः आचरितः । तत्कालीना एका कविता अद्यापि श्रूयते –


"सप्त कोटि लोकेर करुण क्रन्दन, सुनेना सुनिल कर्ज़न दुर्जन;
ताइ निते प्रतिशोध मनेर मतन करिल, आमि स्वजने राखी बन्धन।"

वङ्गनागरिकाणां मनसि पारस्परिकं भ्रातृभावनाम् उद्भावयितुं रक्षाबन्धनस्य सामूहिकायोजनं सफलम् अभवत् । सामान्यजनाः अपि वङ्गभङ्गस्य विरोधं कर्तुं मार्गेषु विरोधप्रदर्शनम् अकुर्वन् । “वन्दे मातरं” जयघोषः आङ्ग्लानां हृदयानि व्यदारयत् । अन्ततो गत्वा वङ्गबङ्गस्य निर्णयः अपाभवत् ।

हुमायू, कर्मावती च

राजस्थानराज्यस्य मेवाडप्रदेशस्य महाराज्ञी कर्मावती स्वगुप्तचरेभ्यः अजानत् यत्, बहादुर शाह-नामकः राजा मेवाडप्रदेशस्योपरि आक्रमणं कर्तुं सज्जः अस्ति इति । प्रदेशस्य स्थितिः युद्धस्य कृते अनुकूला नासीत् । अतः कर्मावती मुगल-राजानं हुमायू इत्येनं रक्षासूत्रं प्रैषयत् । तेन रक्षासूत्रेण सह सा रक्षां कर्तुम् आह्वयत् । मुस्लिम-धर्मस्य अनुयायिनि सत्यपि हुमायू रक्षासूत्रस्य सम्मानम् अकरोत् । हुमायू कर्मावत्याः कथनानुसारं मेवाडप्रदेशस्य रक्षार्थं बहादुर शाह इत्यनेन सह युद्धं कृत्वा तं पराजयत ।

पुरु, सिकन्दर च

सिकन्दर इत्यस्य पत्नी पौरप्रदेशस्य पुरु-नामकाय राज्ञे रक्षासूत्रं प्रेषयित्वा युद्धकाले स्वपत्युः प्राणरक्षणस्य वचनम् ऐच्छित् । सा विदेशिस्त्री रक्षासूत्रस्य माहात्म्यं जानाति स्म । अत एव सा परु इत्यस्मात् एतादृशस्य वचनस्य याचनाम् अकरोत् । पुरु सिकन्दर इत्यनेन सह भीषणं युद्धं तु अकरोत् । परन्तु सिकन्दर यदा पराजितः, तदा स्वभगिन्याः रक्षासूत्रस्य सम्मानं कुर्वन् पुरु सिकन्दर इत्यस्मै जीवनदानम् अयच्छत् ।

भारतस्य राज्येषु रक्षाबन्धनम्

भारतस्य विभिन्नेषु राज्येषु रक्षाबन्धनस्य विभिन्नानि नामानि श्रूयन्ते ।

राज्यम्

रक्षाबन्धनस्य नामान्तरम्

उत्तराखण्डराज्यम्

श्रावणी

महाराष्ट्रराज्यम्

नारिकेलपूर्णिमा

राजस्थानराज्यम्

रामराखी, चूड़ाराखी, लूम्बा

गुजरातराज्यम्

बळेव

दक्षिणभारतीयराज्येषु

उपाकर्म

भारतस्य सर्वेषु राज्येषु ब्राह्मणाः यज्ञोपवीतोत्सर्जनस्य पौराणिकविधिम् आचरन्ति । ते स्नान-ऋषितर्पण-पितृतर्पण-मनुष्यतर्पणादिविधीः कृत्वा दानं कुर्वन्ति । ततः ते स्वयजमानानां रक्षायै प्रार्थनां कृत्वा स्वयजमानानां हस्ते रक्षाबन्धनं कुर्वन्ति ।

भारते समुद्रतटवर्तीनि यानि राज्यानि सन्ति, तेषां राज्यानां जनाः समुद्रदेवस्य पूजनं कृत्वा तस्मै नारिकेलफलं समर्पयन्ति । ते समुद्रदेवाय प्रार्थनां कुर्वन्ति यत्, “हे समुद्रदेव ! त्वम् अस्माकं पोषकः, रक्षकः च । त्वम् एवमेव अस्मान् पोषय, तोषय च” इति । तस्मिन् दिने ते प्रकृतिरक्षणस्य प्रतिज्ञामपि कुर्वन्ति ।

भारतवर्षस्य पवित्रतमेषु मन्दिरेषु अन्यतमे अमरनाथमन्दिरे श्रावणपूर्णिमा हिमशिवलिङ्गस्य अन्तिमदिवसत्वेन परिगण्यते । गुरुपूर्णिमायाः आरब्धा अमरनाथयात्रा रक्षाबन्धनस्य दिने (श्रावणपूर्णिमायां) पूर्णा भवति । एतेषु दिनेषु हिमशिवलिङ्गस्य पूर्णाकारः भवति । अतः भक्ताः अरमनाथं गच्छन्ति । यात्रायाः पूर्णाहुत्याः दिने रक्षाबन्धनपर्वणि अमरनाथतीर्थक्षेत्रे उत्सवस्य (मेला) आयोजनम् अपि भवति ।

राष्ट्रियपर्वत्वेन रक्षाबन्धनम्

भारतस्य परम्परा "सर्वजनहिताय सर्वजनसुखाय" अस्ति । अतः सहोदराणां रक्षया सह भगिन्यः देशरक्षायाः अपि चिन्तनं कुर्वन्ति । ये वीराः मातृभूमेः रक्षणार्थं स्वजीवनं समर्पयन्ति, तेषां रक्षायै, दीर्घायुने अपि भारतीयभगिन्यः ईश्वरं प्रार्थयन्ति । रक्षाबन्धनस्य दिने सैनिकानां भगिन्यस्तु स्वभ्रात्रे रक्षासूत्रं प्रेषयन्ति एव । परन्तु देशस्य अन्यभगिन्यः अपि सैनिकानां हस्ते रक्षासूत्रं बध्नन्ति ।

भारतगणराज्यस्य संविधानं धर्मनिरपेक्षतायाः यत् अमृतं धरते, तत् भारतीयानां हृदि अपि वर्तते । अतः हिन्दुजनैः सह अन्यधर्मानुगामिनः अपि रक्षाबन्धनस्य दिने रक्षाबन्धनस्य उत्सवम् आचरन्ते । मुस्लिम-सिक्ख-कैस्त-धर्मानुगामिनः सामूहिकरक्षाबन्धनस्य आयोजनम् अपि कुर्वन्ति ।

चित्रम्:Pradhanmantri.jpg

 

रक्षासूत्रं भ्रातृभगिन्योः पवित्रसम्बन्धस्य प्रतीकः अस्ति । अतः अन्यपवित्रसम्बन्धस्य कृते अपि रक्षासूत्रस्य उपयोगः भवति । स्वशासकस्य दीर्घायोः कृते ईश्वराय प्रार्थनां कृत्वा प्रजायाः प्रतिनिधित्वेन बालिकाः रक्षाबन्धनं कुर्वन्ति । अतः भारतगणराज्यस्य राष्ट्रपतिः राष्ट्रपतिभवनेप्रधानमन्त्री च स्वनिवासे रक्षाबन्धनस्य उत्सवम् आचरतः । लघ्व्यः बालिकाः राष्ट्रपतेःप्रधानमन्त्रिणः हस्ते रक्षासूत्रं बद्ध्वा तयोः दीर्घायोः कामनां कुर्वन्ति ।

रक्षाबन्धनदिने सर्वकारस्य प्रबन्धाः

भ्रातृभगिन्योः पवित्रपर्वणि शासनपक्षः काश्चन व्यवस्थाः करोति । भारतीयपत्रालयविभागः रक्षाबन्धनस्य कृते विभिन्नानां योजनानां घोषणां करोति । भगिनी स्वभ्रात्रे यत् रक्षासूत्रं प्रेषयति, तस्मै न्यूनव्ययः भवेत् इत्यस्य चिन्तां पत्रालयविभागः करोति । पत्रालयविभागः योग्यमूल्येन आकर्षकछादनानां (cover) मुद्रणं करोति, येन न्यूनव्ययेन भगिनी स्वभ्रात्रे रक्षासूत्रं प्रेषयितुं शक्नुयात् । रक्षाबन्धनस्य पर्व वर्षाकाले एव भवति । अतः वर्षायां रक्षासूत्राणि आद्राणि न भवेयुः इति पत्रालयविभागः जलरोधकछादनस्य (water proof) अपि मुद्रणं करोति । रक्षाबन्धनस्य पर्वणः मासे पत्रालयविभागस्य कार्ये २०% वृद्धिः भवति । भारतस्य जलयुक्ते वातावरणे प्रतिग्रामं, प्रतिनगरं, विदेशं च निर्धारितसमये पत्रालयविभागः रक्षासूत्रं प्रापयति । पत्रालयविभागस्य अध्यक्षः एतस्य विषये वदति यत्, “रक्षाबन्धनपर्वणः प्राक् वयं योग्यरीत्या कार्यस्य विभाजनं कुर्मः । विभागस्य उपरि आपतितम् एतत् कार्यं कुर्वन्तः अस्माकम् अधिकारिणः, पत्रवाहकाः, प्रबन्धकाः च किञ्चिदपि श्रमं नानुभवन्ति । यतो हि कस्यचित् पवित्रसम्बन्धस्य सूत्रं ते अन्यस्मै दातुं प्रयत्नशीलाः सन्ति” इति । जनसामान्यानां हितं विचिन्त्य पत्रालयविभागस्य कस्मिंश्चित् केन्द्रे तु रक्षासूत्रस्य विक्रयणम् अपि भवति, येन न्यूनव्ययेन रक्षासूत्रस्य प्रेषणं शक्यं भवेत् ।

आधुनिकं रक्षाबन्धनम्

पवित्रसम्बन्धः काल-क्षेत्र-व्यवस्थायाः उपरि आधीनः न भवति । एतस्मिन् आधुनिके युगे विदेशे, देशस्य अन्यभागे वा निवसताय भ्रात्रे अपि भगिन्यः रक्षासूत्रं प्रेषयन्ति । काश्चन पत्रालयविभागस्य साहाय्यं स्वीकुर्वन्ति, काश्चन ई-पत्रमाध्यमेन स्वभ्रात्रे रक्षासूत्रं प्रेषयन्ति । ई-रक्षासूत्रस्य चित्राणि अन्तर्जाले प्राप्यन्ते । “भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति” इत्यस्य गतिमच्चित्राणि (gif) अपि अन्तर्जाले प्राप्यन्ते । विडियो कॉन्फरस्-द्वारा अपि जनाः रक्षाबन्धनस्य उत्सवम् आचरन्ति ।

विदेशे रक्षाबन्धनोत्सवः

भारतीयाः यत्र यत्र निवसन्ति, तत्र तत्र भारतम् अपि निवसति । विदेशे ये भारतीयाः निवसन्ति, ते तस्मिन् देशे अपि रक्षाबन्धनस्य पर्व उत्साहेन आचरन्ति । धर्मैकतायाः, मानवैकतायाः, ईश्वरैकतायाः बोधपाठात्कम् उत्सवं ते विदेशेऽपि आचरन्ति । यस्मिन् देशे ते निवसन्तः सन्ति, तस्य देशस्य आरक्षकान् ते रक्षासूत्रं बध्नन्ति । वैदेशिकाः अपि भारतीयपरम्परायाः सम्मानं कृत्वा उत्सवे भागं वहन्ति । एवं रक्षाबन्धनं न केवलं भारतीयानाम् अथवा हिन्दुजनानाम् उत्सवः, अपि तु सर्वेषाम् उत्सवः इति वचने नातिशयोक्तिः ।

भारते संस्कृतोत्सवत्वेन रक्षाबन्धनम्

मुख्यलेखः : संस्कृतोत्सवः

संस्कृतोत्सवः विश्वस्मिन् प्रतिवर्षं श्रावणमासे सप्तदिनानि यावत् आचर्यते । श्रावणमासस्य शुक्लद्वादशीतः, श्रावणमासस्य कृष्णतृतीयापर्यन्तं भारतसर्वकारेण संस्कृतसप्ताहः आचर्यते । भारतस्य विभिन्नेषु स्थानेषुसंस्कृतप्रेमिणः संस्कृतोत्सवम् अत्युत्साहेन आचरन्ति । पाठशालासु, विद्यालयेषु, संस्कृतप्रचारकर्तृसंस्थासु च संस्कृतसप्ताहस्य विशिष्टम् आयोजनं भवति । नाटकानि, नृत्यानि, प्रदर्शन्यः, पदयात्राः, संस्कृतगीतानांगायनम् इत्यादयः पवृत्तयः आभारते भवन्ति । २०१४ तमे वर्षे प्रधानमन्त्री नरेन्द्र मोदी 'अगस्त'-मासस्य सप्तदिनाङ्कात् त्रयोदशदिनाङ्कपर्यन्तं सप्तदिनानि संस्कृतसप्ताहत्वेन अघोषयत् । तस्मात् पुरा अपिसंस्कृतोत्सवस्य आयोजनं भवति स्म । परन्तु भारतगणराज्यस्य प्रप्रथमः प्रधानमन्त्री एषः, यः आभारतं संस्कृतोत्सवस्य विशिष्टम् आयोजनं कृत्वा संस्कृतप्रेमिणां हर्षस्य कारणम् अभवत् ।

रक्षाबन्धनस्य केषाञ्चन चित्राणां वीथिका

रक्षाबन्धनम्1.jpg

रक्षाबन्धनम्2.jpg

रक्षाबन्धनम्3.jpg

 

रक्षाबन्धनम्4.jpg

रक्षाबन्धनम्5.jpg

रक्षाबन्धनम्7.jpg

 

रक्षाबन्धनम्6.jpg

रक्षाबन्धनम्8.jpg

रक्षाबन्धनम्9.jpg

बाह्यानुबन्धः

 

वार्ताः

{source}
<!-- You can place html anywhere within the source tags -->
<iframe src="https://www.youtube.com/embed/?listType=user_uploads&list=sanskritanews" width="auto" height="auto"></iframe>

<script language="javascript" type="text/javascript">
// You can place JavaScript like this

</script>
<?php
// You can place PHP like this

?>
{/source}
{source}
<!-- You can place html anywhere within the source tags -->


<script language="javascript" type="text/javascript">
// You can place JavaScript like this
<script type="text/javascript">
$(function() {
$(this).bind("contextmenu", function(e) {
e.preventDefault();
});
});
</script>
<script type="text/JavaScript">
function killCopy(e){ return false }
function reEnable(){ return true }
document.onselectstart=new Function ("return false");
if (window.sidebar)
{
document.onmousedown=killCopy;
document.onclick=reEnable;
}
</script>

</script>
<?php
// You can place PHP like this

?>
{/source}

श्री भवानी अष्टकम

 ॥**अन्नकूट महोत्सव की ह्रदय से हार्दिक शुभकामनाएं*

*श्री भ [ ... ]

अधिकम् पठतु
भगवान धनवंतरि कौन

कार्तिक कृष्ण पक्ष की त्रयोदशी तिथि के दिन भगवान धन्वन्त [ ... ]

अधिकम् पठतु
सप्तशती विवेचन

|| सप्तशती विवेचन ||
मेरुतंत्र में व्यास द्वारा कथित तीनो च [ ... ]

अधिकम् पठतु
धनतेरस २०१७ विशेष

धनतेरस 2017 :-
यह पर्व प्रति वर्ष कार्तिक मास के कृष्णपक्ष की  [ ... ]

अधिकम् पठतु
दीपावली के अचूक मंत्र...

🌻🌻दीपावली के अचूक मन्त्र 🌻🌻
दीपावली कि रात्रि जागरण कि  [ ... ]

अधिकम् पठतु
धनतेरस की हार्दिक शुभकामनाएं- जानें धनतेरस पूजन वि...

©*धनतेरस पूजन विधि*
( घर में धन धान्य वृद्धि और सुख शांति के  [ ... ]

अधिकम् पठतु
उपमालङ्कारः

उपमालङ्कारस्तु एकः अर्थालङ्कारः वर्तते । 'उपमा कालिदासस [ ... ]

अधिकम् पठतु
रावणः

रावणः ( ( शृणु) (/ˈrɑːvənəhə/)) (हिन्दी: रावन, आङ्ग्ल: Ravan) रामायणस्य म [ ... ]

अधिकम् पठतु
शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
अन्य लेख
लिप्याधिकार © देववाणी (Devwani). सर्वाधिकार सुरक्षित