कृत्

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

अथ कृत्

कृत्-वृत्तिः संस्कृतभाषायां विद्यमानासु पञ्चसु वृत्तिषु मुख्यतमा अस्ति । इयमेव भाषायाः प्रधानपदनिर्माणसामग्र्यपि (primary word generator) । कृत् प्रत्ययाः येषाम् अन्ते ते कृदन्ताः । सर्वैः धातुभिः सह प्रत्ययद्वयं युज्यते धातोः परे । तौ द्वौ तिङ् कृत् च । "कृदतिङ्" (३.१.९३) इति सूत्रानुगुण्यॆन 'कृत्' प्रत्ययाः 'तिङ्' प्रत्ययेभ्यः भिन्नाः । "कृत्तद्धितसमासाश्च" (१.२.४६) इत्यनेन सूत्रेण ज्ञायते कृदन्ताः प्रातिपदिकसंज्ञं स्वीकुर्वन्ति अपिच ततः नामपदानि भवन्ति इति ।

(इदम् अवधेयम् - अत्र कोष्टकस्थिताः सङ्ख्यास्सर्वाः अष्टाध्यायी सूत्रपाठसङ्ख्याक्रमयुक्ताः)

१०० अधिकाः कृत् प्रत्ययाः सन्ति । तेषु कृत्य, निष्टा, इत्यादिसंज्ञकाः कृदन्ताः प्रसिद्धाः । केचन कृत् प्रत्ययाः सूत्रोदाहरणसहिताः अधो दत्ता वर्तन्ते ।

कृत्य-प्रत्ययाः (future passive participles /gerundives) तव्यत्, तव्य, अनीयर्, यत्, क्यप्, ण्यत् इत्यादयः । तव्यत्तव्यानीयरः (३.१.९६), एवमेव यत् (३.१.९७), क्यप् (३.१.१०६, ३.१.१०९), ण्यत् (३.१.१२४) इत्यादीनि व्याकरणसूत्राणि ६ कृत्यप्रत्ययानां विधायकानि ।

कृत्यप्रत्ययानां विषये किन्चित् - कृत्याः वाक्येषु कर्म सूचकाः । कर्मणि कर्तृ-कर्म सम्बन्धद्योतकाः । अन्यत्र विशेषण-विशेष्य भावेsपि । रूपसिद्धौ 'य'कारयुक्ताः । त्रिषु लिङ्गेष्वपि इमे भवन्ति । भगवता वार्तिककारेण अस्मिन् कृत्य-प्रत्ययगणे 'एलिमर्' प्रत्ययः अपि योजितः ।

ण्वुल्तृचौ (३.१.१३३) ण्वुल्, तृच् । क्तक्तवतू निष्टा (१.१.२५) क्त, क्तवतु । शतृ, शानच् (३.२.१२४) । घञ् (३.३.१६) । एरच् (३.३.५६) । क्तिन् (३.३.९४) । युच् (३.३.१०७) । ल्युट् (३.३.११५) । तुमुन् (३.३.१५८) । क्त्वा (३.४.१८) / ल्यप् (२.४.३६) । कृत्यप्रत्ययैः सह् एतेsपि प्रसिद्धाः अन्ये कृत्प्रत्ययाः ॥ ।

इमानि एतेषाम् उदाहरणानि (कृ-धातोः कृदन्तप्रातिपदिकरूपाणि यत्र युज्यन्ते अन्यधातूनां रूपाणि वा) ।

तव्यत् - कर्तव्य ।
तव्य - कर्तव्य ।
अनीयर् - करणीय ।
यत् - (दा धातोः) - देय । ऋकारान्तं वर्जयित्वा अन्येषाम् अजन्तानां धातूनां अन्ते भावार्थे अयं कृत्प्रत्ययः भवति ।
ण्यत् - कार्य । ऋकारान्तानां हलन्तानाञ्च अन्ते भावार्थे अयं कृत्प्रत्ययः भवति ।
क्यप् - अयं 'क्यप्' प्रत्ययः केषाञ्चित् धातूनाम् 'ण्यत्' प्रत्ययं बाधित्वा भवति । एति (इण् गतौ) - इत्य, स्तु - स्तुत्य, शास् - शिष्य, वृ - वृत्य, दृ - आदृत्य, जुषि - जुष्य । एवम् क्वचित् रूपद्वयम् - शंसि - शस्य शंस्य, दुहि - दुह्य, दोह्य, गुहि - गुह्य, गोह्य ।
ण्वुल् - कारक ।
तृच् - कर्तृ ।
क्त - कृत ।
क्तवतु - कृतवत् ।
शतृ - कुर्वत् ।
शानच् - कुर्वाण ।
घञ् - कार ।
एरच् - (जी धातोः एरजन्ते) - जय । इकारान्तानाम् ईकारान्तानाञ्च धातूनां 'घञ्' प्रत्ययस्य स्थाने 'एरच्' प्रत्ययः भवति ।
क्तिन् - कृति ।
युच् - (गण् धातोः युजन्ते) - गणना । चुरादिगणीयानां धातूनां 'युच्' प्रत्ययः (अना अदेशः) क्तिन् स्थाने भवति ।
ल्युट् - करण । अयं प्रत्ययः प्रायः सर्वेषां धातूनां अन्ते भवति । अतः 'गणनम्' इति गण् धातोः ल्युडन्तरूपमपि साधु ।
तुमुन् - कर्तुम् ।
क्त्वा - कृत्वा ।
ल्यप् - अधिकृत्य (उपसर्गयोगे अयं 'ल्यप्' प्रत्ययः 'क्त्वा' प्रत्ययस्य स्थाने भवति) ।

इत्येवं सर्वधातुतः कृत्प्रत्यययोजनेन बहूनि कृदन्तपदानि निर्मातुं शक्यन्ते ॥

वार्ताः

{source}
<!-- You can place html anywhere within the source tags -->
<iframe src="https://www.youtube.com/embed/?listType=user_uploads&list=sanskritanews" width="auto" height="auto"></iframe>

<script language="javascript" type="text/javascript">
// You can place JavaScript like this

</script>
<?php
// You can place PHP like this

?>
{/source}
{source}
<!-- You can place html anywhere within the source tags -->


<script language="javascript" type="text/javascript">
// You can place JavaScript like this
<script type="text/javascript">
$(function() {
$(this).bind("contextmenu", function(e) {
e.preventDefault();
});
});
</script>
<script type="text/JavaScript">
function killCopy(e){ return false }
function reEnable(){ return true }
document.onselectstart=new Function ("return false");
if (window.sidebar)
{
document.onmousedown=killCopy;
document.onclick=reEnable;
}
</script>

</script>
<?php
// You can place PHP like this

?>
{/source}

श्री भवानी अष्टकम

 ॥**अन्नकूट महोत्सव की ह्रदय से हार्दिक शुभकामनाएं*

*श्री भ [ ... ]

अधिकम् पठतु
भगवान धनवंतरि कौन

कार्तिक कृष्ण पक्ष की त्रयोदशी तिथि के दिन भगवान धन्वन्त [ ... ]

अधिकम् पठतु
सप्तशती विवेचन

|| सप्तशती विवेचन ||
मेरुतंत्र में व्यास द्वारा कथित तीनो च [ ... ]

अधिकम् पठतु
धनतेरस २०१७ विशेष

धनतेरस 2017 :-
यह पर्व प्रति वर्ष कार्तिक मास के कृष्णपक्ष की  [ ... ]

अधिकम् पठतु
दीपावली के अचूक मंत्र...

🌻🌻दीपावली के अचूक मन्त्र 🌻🌻
दीपावली कि रात्रि जागरण कि  [ ... ]

अधिकम् पठतु
धनतेरस की हार्दिक शुभकामनाएं- जानें धनतेरस पूजन वि...

©*धनतेरस पूजन विधि*
( घर में धन धान्य वृद्धि और सुख शांति के  [ ... ]

अधिकम् पठतु
उपमालङ्कारः

उपमालङ्कारस्तु एकः अर्थालङ्कारः वर्तते । 'उपमा कालिदासस [ ... ]

अधिकम् पठतु
रावणः

रावणः ( ( शृणु) (/ˈrɑːvənəhə/)) (हिन्दी: रावन, आङ्ग्ल: Ravan) रामायणस्य म [ ... ]

अधिकम् पठतु
शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
अन्य लेख
लिप्याधिकार © देववाणी (Devwani). सर्वाधिकार सुरक्षित